SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीसमन्तभद्रस्वामिविरचिता प्राप्तमीमांसा । (११) देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १॥ अध्यात्म बहिरप्येष विग्रहादिमहोदयः। दिव्यः सत्योदिवौकस्स्वप्यस्ति रागादिमत्सु सः॥२॥ तीर्थकृत्समयानां च परस्परविरोधतः। सर्वेषामाप्तता नास्ति कश्चिदेव भवेदुरुः ॥३॥ दोषावरणयोर्हानिनिःशेषाऽस्त्यतिशायनात् । कचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥४॥ सुक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा। अनुमेयत्वतोऽग्न्यादिरिति सर्वशसंस्थितिः ॥५॥ स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धन व बाध्यते ॥६॥. त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम्। माताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥७॥ कुशलाकुशलं कर्म परलोकश्च न कचित् । एकान्तप्रहरकेषु नाथ स्वपरवैरिषु ॥ ८ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy