SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा। २३३ इत्यसम्भाव्यमेवास्याचेतनत्वात्पटादिवत् । तदसम्भवतो नूनमन्यथा निष्फलः पुमान् ॥ ८१॥ भोक्तात्मा चेत्स एवास्तु की तदविरोधतः। विरोधे तु तयो क्तुः स्याद्भजौ कर्तृता कथम् ॥ ८२॥ प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् । मुमुक्षुभिरिति ब्रूयात्कोऽन्योकिञ्चित्करात्मनः ॥ ८३॥ सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः । विश्वतत्त्वशतापायात्तत्वतः कपिलादिवत् ॥ ४॥ संवृत्या विश्वतत्त्वशः श्रेयोमार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नस्ताहगित्याचेष्टितम् ॥ ५॥ यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सिञ्चत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ८६ ॥ सोऽहन्नेव मुनीन्द्राणां वन्द्यः समवतिष्ठते । तत्सद्भावे प्रमाणस्य निर्बाध्यस्य विनिश्चयात् ॥ ८७ ॥ ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यईतोऽअसा। प्रमेयत्वाधथास्मारक् प्रत्यक्षार्थाः सुनिश्चिताः॥८८॥ हेतोर्न व्यभिचारोऽत्र दूरार्थैर्मन्दरादिभिः । सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥ ८॥ तत्त्वान्यन्तरितानीह देशकालस्वभावतः। धर्मादीनि हि साध्यन्ते प्रत्यक्षाणि जिनेशिनः ॥ १० ॥ न चास्मारक्समक्षाणामेवमहत्समक्षता। म सिद्ध्येदिति मन्तव्यमविवादाद्वयोरपि ॥ ९१ ॥ न चासिद्धं प्रमेयत्वं कात्य॑तो भागतोऽपि वा। सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥ ९२॥ ..
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy