________________
प्रथम गुच्छक ।
म स्वतः सदसन्नापि सत्त्वेन समवायतः । सन्नेव शश्वदित्युक्तौ व्याघातः केन वार्यते ॥ ६९ ॥ स्वरूपेणासतः सस्वसमवाये च खाम्बुजे । स स्यात्किन्न विशेषस्याभावात्तस्य ततोऽअसा ॥७०॥ स्वरूपेणासतः सत्वसमवायेऽपि सर्वदा । सामान्यादौ भवेत्सत्त्वसमवायोऽविशेषतः ॥ ७१ ॥ स्वतः सतो यथा सत्त्वसमवायस्तथास्तु सः । द्रव्यत्यात्मत्वबोद्धत्वसमवायोऽपि तत्त्वतः ॥ ७२ ॥ द्रव्यस्यैवात्मनो बोद्धुः स्वयं सिद्धस्य सर्वदा । न हि स्वतोऽतथाभूतस्तथात्वसमवायभाक् ॥ ७३ ॥ स्वयं शत्वे च सिद्धेऽस्य महेशस्य निरर्थकम् । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनम् ॥ ७४ ॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः । कथंचिदीश्वरस्यास्ति जिनेशत्वमसंशयम् ॥ ७५ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहः सर्वविन्नष्टमोहो धर्म्मविशेषभाक् ॥ ७६ ॥ ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवः कर्त्तोपदेशस्य सोऽभेत्ता कर्म्मभूभृताम् ॥७७॥ एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः । ज्ञानादर्थान्तरत्वस्याविशेषात्सर्वथा स्वतः ॥ ७८ ॥ ज्ञानसंसर्गतो शत्वमशस्यापि न तत्त्वतः । व्योमवच्चेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७९ ॥ प्रधानं शत्वतो मोक्षमार्गस्यास्तूपदेशकम् । तस्यैव विश्ववेदित्वाद्भेत्तृत्वात्कर्म्मभूभृताम् ॥ ८० ॥
२३२