________________
आप्तपरीक्षा।
२३१
तस्यानन्त्यात्प्रपत्तॄणामाकांक्षाक्षयतोऽपि वा। न दोष इति चेदेवं समवायादिनापि किम् ॥ ५७ ॥ गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परम् । विशेषणविशेष्यत्वसम्बन्धोऽस्तु निरङ्कशः ॥ ५८ ॥ संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा । स्वातन्त्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ ५९ ॥ स्वतन्त्रस्य कथं तावदाश्रितत्वं स्वयं मतम् । तस्याश्रितत्ववचने स्वातन्त्र्यं प्रतिहन्यते ॥ ६०॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मृतद्रव्याधितिर्न किम् ॥ ६१ ॥ कथं चानाश्रितः सिद्ध्येत्सम्बन्धः सर्वथा कचित् । स्वसम्बन्धिषु येनातः सम्भवेनियमस्थितिः ।। ६२ ॥ एक एव च सर्वत्र समवायो यदीष्यते। तदा महेश्वरे ज्ञानं समवैति न खे कथम् ॥ ६३ ॥ इहेति प्रत्ययोऽप्येष शङ्करे न तु खादिषु । इति भेदः कथं सिध्येनियामकमपश्यतः ॥ ६४ ॥ न चाचेतनता तत्र सम्भाव्येत नियामिका । शम्भावपि तदास्थानात्खादेस्तदविशेषतः ॥ ६५ ॥ नेशो शाता न चाहाता स्वयं ज्ञानस्य केवलम् । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥६६॥ नायमात्मा न चानात्मा स्वात्मत्वसमवायतः। सदात्मैवेति चेदेवं द्रव्यमेव स्वतोऽसिधत् ॥ ६७ ॥ नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः। सर्वदा द्रव्यमेवेति यदि सभेव स स्वतः ॥ ६८ ॥