________________
२३०
प्रथम गुच्छक |
पृथगाश्रयवृत्तित्वं युतसिद्धिर्न चानयोः । सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥ ४५ ॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः । इति येऽपि समादध्युस्तांश्च पर्य्यनुर्युज्महे ॥ ४६ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः । युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥ ४७ ॥ समवायः प्रसज्येताऽयुत सिद्धौ परस्परम् । तेषां तद्वितयासत्त्वं स्याद्याघातो दुरुत्तरः ॥ ४८ ॥ युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे । विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४९ ॥ ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणम् । हेतोर्विपक्षतस्तावद्व्यवच्छेदं न साधयेत् ॥ ५० ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ५१ ॥ समवायान्तराद्वृत्तौ समवायस्य तत्त्वतः समवायिषु तस्यापि परस्मादित्यनिष्ठतिः ॥ ५२ ॥ तद्बाधास्तीत्यबाधत्वं नाम नेह विशेषणम् । हेतोः सिद्धमनेकान्तो यतोऽनेनेति ये विदुः ॥ ५३ ॥ तेषामिति विज्ञानाद्विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ ५४ ॥ विशेषणविशेष्यत्व सम्बन्धोऽप्यन्यतो यदि । स्वसम्बन्धिषु वर्तेत तदा बाधानवस्थितिः ॥ ५५ ॥ विशेषणविशेष्यत्वप्रत्ययादवगम्यते ।
विशेषणविशेष्यत्वमित्यप्येतेन दूषितम् ॥ ५६ ॥