________________
आप्तपरीक्षा।
२२९
योकत्र स्थितं देशे शानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥ ३३॥ कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३४ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि सन्देहात्कायं तद्धतुकं कथम् ॥ ३५ ॥ एतेनैवेश्वरशानं व्यापि नित्यमपाकृतम् । तस्येशवत्सदा कार्यक्रमहेतुत्वहानितः ॥ ३६ ॥ अस्वसंविदितं शानमीश्वरस्य यदीप्यते । सदा सर्वशता न स्यात्स्वज्ञानस्याप्रवेदनात् ॥ ३७ ॥ शानान्तरेण तद्वित्तौ तस्याप्यन्येन वेदनम् । वेदनेन भवेदेवमनवस्था महीयसी ॥३८॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने । इज्यमाणे महेशस्य प्रथमं तागस्तु वः ॥ ३९ ॥ . तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्येति निर्देश्यमाकाशादिवदासा ॥ ४०॥ समवायेन तस्यापि तद्भिन्नस्य कुतो गतिः। इहेदमिति विज्ञानादबाध्यायभिचारितम् ॥४१॥ इह कुण्डे दधीत्यादिविशानेनास्तविद्विषा । साध्ये सम्बन्धमात्रे तु परेषां सिद्धसाधनम् ॥ ४२ ॥ सत्यामयुतसिद्धौ चेन्नेदं साधु विशेषणम् । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥४३॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः । लौकिक्ययुतसिद्धिस्तु भवेददुग्धाम्भसोरपि ॥४४॥