SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ प्रथम गुच्छक। स्वयं देहाविधाने तु तेनैव व्यभिचारिता। कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥२१॥ यथानीशः स्वदेहस्य कर्ता देहान्तरात्मनः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २२ ॥ तथेशस्यापि पूर्वस्माइहादेहान्तरोद्भवात् । नानवस्थेति यो ब्रूयात्तस्यानीशत्वमीशितुः ॥ २३ ॥ अनीशः कर्मदेहेनाऽनादिसन्तानवर्तिना। यथैव हि सकनिस्तद्वन्न कथमीश्वरः ॥२४॥ ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषङ्गतः। नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥२५॥ येनेच्छामन्तरेणापि तस्य कार्ये प्रवर्तनम् । जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥२६॥ शानमीशस्य नित्यं चेदशरीरस्य न क्रमः । कार्याणामक्रमाद्धेतोः कार्यक्रमविरोधतः ॥२७॥ तद्वोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलावबोधस्यानित्यस्ये ष्टौ मतक्षतिः ॥ २८ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानासमुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २९ ॥ अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेनाकरणेऽस्य स्वबुद्धितः ॥३०॥ बुद्धन्तरेण तबुद्धेः करणे चानवस्थितिः। नानादिसन्ततिर्युका कर्मसन्तानतो विना ॥ ३१॥ अव्यापि च यदि शानमीश्वरस्य तदा कथम् । सवत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः ॥ ३२ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy