SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा । नास्पृष्टः कर्मभिः शश्वद्विश्वदृश्वास्ति कश्चन । तस्यानुपायसिद्धस्य सर्वथानुपपत्तितः ॥ ९ ॥ प्रणीतिर्मोक्षमार्गस्य न विनाऽनादिसिद्धितः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ १० ॥ प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् । सशरीरस्तु नाकर्म्मा सम्भवत्यशजन्तुवत् ॥ ११ ॥ न चेच्छाशक्तिरीशस्य कर्माभावेऽपि युज्यते । तदिच्छा वानभिव्यक्ता क्रियाहेतुः कुतोऽशवत् ॥ १२ ॥ ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्याने ऽनुमानमनिदर्शनम् ॥ १३ ॥ समीहामन्तरेणापि यथा वक्ति जिनेश्वरः । तथेश्वरोऽपि कार्याणि कुर्य्यादित्यप्यपेशलम् ॥१४॥ सति धर्मविशेषे हि तीर्थकृत्त्वसमाह्वये । ब्रूयाज्जिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १५ ॥ - सिद्धस्यापास्तनिःशेषकर्म्मणो वागसम्भवात् । विना तीर्थंकरत्वेन नाम्ना नाथपदेशिता ॥ १६ ॥ तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः । तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥ १७ ॥ निग्रहानुग्रहो देहं स्वं निर्मायान्यदेहिनाम् । करोतीश्वर इत्येतन परीक्षाक्षमं वचः ॥ १८ ॥ देहान्तराद्विना तावत्स्वदेहं जनयेद्यदि । तदा प्रकृतकार्याऽपि देहाधानमनर्थकम् ॥ १९ ॥ देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं कार्य्यं कुर्य्यादीशो न जातुचित् ॥२०॥ २२७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy