SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविद्यानन्दस्वामिविरचिता प्राप्तपरीक्षा। (१०) प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने । नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभेदिने ॥१॥ श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः । इत्याहुस्तहुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥२॥ मोक्षमार्गस्य नेतार भेत्तारं कर्मभूभृताम् । शातारं विश्वतत्त्वानां वन्दे तहुणलब्धये ॥३॥ इत्यसाधारणं प्रोक्तं विशेषणमशेषतः। परसङ्कल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥४॥ अन्ययोगव्यवच्छेदानिश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यादनुष्ठानं प्रतिष्ठितम् ॥५॥ तत्रासिद्ध मुनीन्द्रस्य भेत्तृत्वं कर्मभूभृताम् । ये वदन्ति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ६ ॥ प्रसिद्धः सर्वशास्त्रशस्तेषां तावत्प्रमाणतः । सदा विध्वस्तनिःशेषबाधकात्स्वसुखादिवत् ॥ ७॥ झाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृताम् । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ८॥ .
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy