________________
परीक्षामुखसूत्राणि |
२२३
शब्दः ॥ १३ ॥ सिद्धः श्रावणः शब्दः ॥ १४ ॥ बाधितः प्रत्य. क्षानुमानागमलोकस्ववचनैः ॥ १५ ॥ तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत् ॥ १६ ॥ अपरिणामी शब्दः कृतऋत्वात् घटवत् ॥ १७ ॥ प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवत् ॥ १८ ॥ शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्ति. वत् ॥ १९ ॥ माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत् || २० || हेत्वाभासा असिद्धविरुद्धानैकान्तिका कि• ञ्चित्कराः || २१ || असत्सत्तानिश्चयोऽसिद्धः ॥ २२ ॥ अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् ॥ २३ ॥ स्वरूपेणैवासिद्धत्वात् ॥ २४ ॥ अविद्यमाननिश्रयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात् ॥ २५ ॥ तस्यवाष्पादिभावेन भूतसंघाते संदेहात् ॥२६॥ सांख्यं प्रति परिणामी शब्दः कृतकत्वात् ॥ २७ ॥ तेनाज्ञातत्वात् ॥ २८ ॥ विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् ॥ २९ ॥ विपक्षेऽप्यविरुद्ध वृत्तिरनैकान्तिकः || ३० || निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् ॥ ३१ ॥ आकाशे नित्येऽप्यस्य निश्चयात् ॥ ३२ ॥ शङ्कितवृत्तिः स्तु नास्ति सर्वज्ञो वक्तृत्वात् ॥ ३३ ॥ सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥ ३४ ॥ सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकि. ञ्चित्करः ॥ ३५ ॥ सिद्धः श्रावणः शब्दः शब्दत्वात् ॥ ३६ ॥ किञ्चिदकरणात् ॥ ३७ ॥ यथाऽनुष्णोऽग्निर्द्रव्यत्वादित्यादी किञ्चित्कर्तुमशक्यत्वात् ॥ ३८ ॥ लक्षण एवासौ दोषो व्युत्पन्न - प्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥ ३९ ॥ दृष्टान्ताभासा अन्व येsसिद्धसाध्यसाधनोभयाः ॥ ४० ॥ अपौरुषेयः शब्दोऽमूर्त त्वादिन्द्रियमुखपरमाणुघटवत् ॥ ४१ ॥ विपरीतान्वयश्च यद