SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२४ - प्रथम गुच्छक। पौरुषेयं तदमूर्तम् ॥ ४२ ॥ विद्युदादिनाऽतिप्रसङ्गात् ॥ ४३ ॥ व्यतिरेके सिद्धतद्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ॥४४॥ विपरीतव्यतिरेकश्च यन्त्रनामूर्त तन्नापौरुषेयम् ॥ ४५ ॥ बालप्र. योगाभासः पञ्चावयवेषु कियद्धीनता ॥४६॥ अग्निमानय देशो. धूमवत्त्वात् यादत्थ तदित्थं यथा महानसः॥४७॥ धूमवांश्वाय. मिति वा॥४८॥ तस्मादाग्नमान् धूमवांश्वायम् ॥४९॥ स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥ ५० ॥ रागद्वेषमोहाक्रान्तपुरुषवचना. जातमागमाभासम् ॥५१॥ यथा नद्यास्तीरे मोदकराशयः सन्ति धावध्वं माणवकाः ॥५२॥ अङ्गुल्यग्रे हस्तियूथशतमास्त इति च ॥ ५३॥ विसंवादात् ॥ ५४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्याभासम् ॥५५॥ लोकायनिकस्य प्रत्यक्षतः परलोकादिनि षेधस्य परबुद्ध्यादेश्चासिद्धरताद्वषयत्वात् ॥५६॥ सौगतसां. ख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थाप. त्यभावैरेकैकाधिकैाप्तिवत् ॥५७ अनुमानादेस्तद्विषयत्वे प्र. माणान्तरत्वम् ॥ ५८ ॥ तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वमप्रमाणस्याव्यवस्थापकत्वात् ॥ ५९ ॥ प्रतिभासभेदस्य च भेदकत्वात् ॥ ६० ॥ विषयाभासः सामान्यं विशेषो द्वयं वा स्वतंत्रम् ॥ ६१ ॥ तथाप्रतिभासनात्कार्याकरणाच्च ॥६२॥ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६३ ॥ परापेक्षणे परिणामित्वमन्यथा सदभावात् ॥ ६४ ॥ स्वयमसमर्थस्याकार. कत्वात्पूर्ववत् ॥ ६५ ॥ फलाभासं प्रमाणादभिन्न भिन्नमेव वा ॥६६ ॥ अभेदे तयवहारानुपपत्तेः ॥ ६७ ॥ व्यावृत्याऽपि न तत्कल्पना फलान्तराव्यावृत्त्याऽलफलत्वप्रर्सगात् ॥ ६८॥ प्रमा. णान्तराखावृत्येवाप्रमाणत्वस्य ॥ ६९ ॥ तस्माद्वास्तवोऽभेदः
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy