________________
२२०
प्रथम गुच्छक।
स्तु निगमनं ॥४६॥ तदनुमान द्वधा ॥४७॥ स्वार्थपरार्थभेदात् ॥४८॥ स्वार्थमुक्तलक्षणं ॥ ४९ ॥ परार्थ तु तदर्थपरामर्शवच. नाजातं ॥ ५० ॥ तद्वचनमपि तद्धेतुत्वात् ॥५१॥ स हेतुर्द्धिघोपलब्ध्यनुपलब्धिभेदात् ॥५२॥ उपलब्धिर्विधिप्रतिषेधयो. रनुपलब्धिश्च ॥ ५३॥ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्य.. कार्यकरणपूर्वोत्तरसहचरभेदात् ॥ ५४॥ रसादेकसामग्यनु. मानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥५५॥ न च पूर्वोत्तर चारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ॥५६॥भाव्यतीतयोमरणजाग्रबोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् ॥ ५७ ॥ तद्यापाराश्रितं हि तद्भावभावित्वं ॥ ५८ ॥ सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च ॥ ५९॥ परिणामी शब्दः कृतकत्वाद्य एवं स एवं दृष्टो यथा घटः, कृतकश्चायं, तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्चायं, तस्मात्परिणामी ॥ ६०॥ अस्त्यत्र देहिनि बुद्धिाहारादेः ॥ ६१ ॥ अ. स्त्यत्र च्छाया छत्रात् ॥ ६२ ॥ उदेष्यति शकटं कृत्तिकोदयात् ॥६३ ॥ उद्गाद्भरणिः प्राक् तत एव ॥ ६४ ॥ अस्त्यत्र मातु. लिङ्गे रूपं रसात् ॥६५॥ विरुद्धतदुपलब्धिः प्रतिषेधे तथा ॥ ६६ ॥ नास्त्यत्र शीतस्पर्श औष्ण्यात् ॥ ६७ ॥ नास्त्यत्र शीतस्पर्टी धूमात् ॥ ६८ ॥ नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥ ६९ ॥ नोदेण्यति मुहूर्तान्ते शकटं रेवत्युदया. त् ॥ ७० ॥ नोदगाद्भरणिर्मुहूर्तात्पूर्व पुग्योदयात् ॥ ७९ ॥ नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥ ७२ ॥ अविरु