SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१८ प्रथम गुच्छक। लोको कारणं परिच्छेद्यत्वात्तमोवत् ॥ ६॥ तदन्वयव्यति. रेकानुविधानाभावाच केशोण्डकज्ञानवन्नक्तंचरशानवञ्च ॥ ७॥ अतजन्यमपि तत्प्रकाशकं प्रदीपषत् ॥ ८॥ स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति ॥९॥ कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः ॥ १०॥ साम. प्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यं ॥ ११ ॥ सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥ १२ ॥ इति प्रत्यक्षोद्देशः द्वितीयः ॥ २ ॥ परोक्षमितरत् ॥ १॥ प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिक्षा. मतांनुमानागमभेदं ॥२॥ संस्कारोबोधनिबन्धना तदित्या. कारा स्मृतिः ॥३॥ स देवदत्तो यथा ॥४॥ दर्शनस्मरणकारः णकं सङ्कलनं प्रत्यभिज्ञानं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि ॥ ५॥ यथा स एवायं देवदत्तः गोसदृशो गवयः गोविलक्षणो महिष इदमस्माद्दूरं वृक्षोऽयमित्यादि ॥ ६॥ उ. पलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः इदमस्मिन्सत्येव भपत्यसति न भवत्येवेति च ॥ ७॥ यथानावेव धूमस्तदभावे न भवत्येवेति च ॥८॥ साधनात्साध्यविज्ञानमनुमानं ॥९॥ साध्याविनाभावित्वेन निश्चितो हेतुः॥१०॥ सहक्रमभावनियमोऽविनाभावः ॥ ११ ॥ सहचारिणोळप्यव्यापकयोश्च सहभावः ॥ १२॥ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥ १३॥ तर्कात्तनिर्णयः ॥ १४॥ इष्टमबाधितमसिद्धं साध्य ॥ १५ ॥ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादि. त्यसिद्धपदं ॥ १६ ॥ अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा. भूदितीष्टाबाधितवचनं ॥ १७ ॥ न चासिद्धवदिष्ठं प्रतिवादिनः
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy