________________
श्रीमन्माणिक्यनन्दिविरचितानि
परीक्षामुखसूत्राणि ।
प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः ।
इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥१॥ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणं ॥१॥ हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं ततो शानमेव तत् ॥२॥ तन्नि श्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥ ३॥ अनिश्चितोऽ. पूर्वार्थः ॥ ४ ॥ दृष्टोऽपि समारोपात्तादृक् ॥ ५॥ स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः॥ ६ ॥ अर्थस्येव तदुन्मुखतया ॥७॥ घटमहमात्मना वेनि ॥ ८॥ कर्मवत्कर्तृकरणक्रियाप्रती. तेः॥९॥ शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् ॥१०॥ को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ प्रदीपवत् ॥ १२॥ तत्प्रामाण्यं स्वतः परतश्च ॥१३॥
इति प्रमाणस्य स्वरूपोद्देशः प्रथमः ॥ १॥ तवेधा ॥१॥ प्रत्यक्षेतरभेदात् ॥२॥ विशदं प्रत्यक्षं ॥३॥ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशचं ॥४॥ इन्द्रियानिन्द्रियनिमत्तं देशतः सांव्यवहारिकम् ॥५॥ ना.