________________
नाटकसमयसारकलशाः। २१५ मेकान्तशान्तमचलं चिदहं महोऽस्मि ॥ २४ ॥ योऽयं भावो ज्ञानमात्रोऽहमस्मि शेयो शेयज्ञानमात्रः स नैव । शेयो शेयज्ञानकल्लोलवल्गद् शानशेयज्ञातृवद्वस्तुमात्रः ॥२५॥
क्वचिल्लसति मेचकं क्वचिदमेचकामेचकं क्वचित्पुनरमेचकं सहजमेव तत्त्वं मम । तथापि न विमोहयत्यमलमेधसां तन्मनः परस्परसुसंहृतप्रकटशक्तिचक्रं स्फुरत् ॥ २६ ॥ इतो गतमनेकतां दधदितः सदाप्येकतामितः क्षणविभङ्गुरं ध्रुवमितः सदैवोदयात् । इतः परमविस्तृतं धृतमितः प्रदेशैर्निजैरहो सहजमात्मनस्तदिदमद्भुतं वैभवम् ॥ २७ ॥ कषायकलिरेकतः स्खलति शान्तिरस्त्येकतो भवोपहतिरेकतः स्पृशति मुक्तिरप्येकतः । जगत्रितयमेकतः स्फुरति चिच्चकास्त्येकतः स्वभावमहिताऽऽत्मनो विजयतेऽद्भुतादद्भुतः ॥२८॥ जयति सहजतेजःपुञ्जमजत्रिलोकी. स्खलदखिलविकल्पोऽप्येक एव स्वरूपः। स्वरसविसरपूर्णाच्छिन्नतत्त्वोपलम्भः प्रसभनियमिताञ्चिश्चिच्चमत्कार एषः ॥ २९ ॥ अविचलितचिदात्मन्यात्मनात्मानमात्मन्यनवरतनिमग्नं धारयध्वस्तमोहम् । उदितममृतचन्द्रज्योतिरेतत्समन्ता. ज्ज्वलतु विमलपूर्ण निःसपत्नस्वभावम् ॥ ३०॥ यस्माद्वैतमभूत्पुरा स्वपरयोर्भूतं यतोऽत्रान्तरं