________________
२१४
प्रथम गुच्छक । तव्यपर्ययमयं चिदिहास्ति वस्तु ॥ १८ ॥ नैकान्तसङ्गतशा स्वयमेव वस्तु. तत्त्वव्यवस्थितिमिति प्रविलोकयन्तः। . . स्थाद्वादशुद्धिमधिकामधिगम्य सन्तो झानीभवन्ति जिननीतिमलङयन्तः ॥ १९ ॥ ये शानमात्रनिजभावमयीमकम्पां भूमि श्रयन्ति कथमप्यपनीतमोहाः । ते साधकत्वमधिगम्य भवन्ति सिद्धाः । मूढास्त्वमूमनुपलभ्य परिभ्रमन्ति ॥ २० ॥ स्याद्वादकौशलसुनिश्चलसंयमाभ्यां यो भावयत्यहरहः स्वमिहोपयुक्तः। छानक्रियानयपरस्परतीवमैत्री. पात्रीकृतः श्रयति भूमिमिमां स एकः॥२१॥ चित्पिण्डचण्डिमविलासिविकासहासः शुद्धः प्रकाशभरनिर्भरसुप्रभातः । आनन्दसुस्थितसदास्खलितैकरूप स्तस्यैव चायमुदयत्यचलार्चिरात्मा ॥ २२ ॥ स्थाहाददीपितलसन्महसि प्रकाशे शुद्धस्वभावमहिमन्युदिते मयीति । कि बन्धमोक्षपथपातिभिरन्यभावै. नित्योदयः परमयं स्फुरतु स्वभावः ॥ २३ ॥ चित्रात्मशक्तिसमुदायमयोऽयमात्मा सद्यः प्रणश्यति नयेक्षणखण्ड्यमानः । तस्मादखण्डमनिराकतखण्डमेक. ..