________________
बृहत्स्वयम्भूस्तोत्रम् । 'भगवानृषिः परमयोगदहनहुतकल्मषेन्धनम् । शानविपुलकिरणैः सकलं प्रतिबुध्य बुद्धः कमलायतेक्षण; ॥१२१ हरिवंशकेतुरनवद्यविनयदमतीथ नायकः शीलजलधिरभवो विभवस्त्वमरिष्टनेमिजिनकुअरोजरः।१२२॥ त्रिदशेन्द्रमौलिमणिरत्नकिरणविलरोपचुम्बितम् पादयुगलममलं भवतो विकसकुशेश रदलारुणोदरम् ॥१२३॥ नखचन्द्ररश्मिकवचातिरुचिरशिखराङ्गुलिस्थलम् । स्वार्थनियतमनसः सुधियःप्रणमन्ति मन्त्रमुखरा महर्षयः॥१२४॥ धुतिमद्रथाङ्गरविबिम्बकिरण जटिलांशुमण्डलः नालजलजदलराशिवपुः सहबन्धुभिर्गरुडकेतुरीश्वरः ॥१२॥ हलभृञ्च ते स्वजनभक्तिमुदितहृदयौ जनेश्वरौ । धर्मविनयरसिको सुतरां चरणारविन्दयुगलं प्रणेमतुः ॥१२६॥ ककुदं भुवः खत्ररयोषिदुषितशिखरैरलंकृतः । मेघपटलपरिवीततटस्तव लक्षणानि लिखितानि वज्रिणा॥१२७॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेद्य च । प्रीतिविततहृदयैः परितोभृशमूर्जयन्त इति विश्रुतो चलः१२८॥ बहिरन्तरप्युभयथा च करणभविघाति नाथकृत् । नाथ युगपदखिलं च सदा त्वमिदं तलामलकवद्विवेदिथ ॥१२६॥ अत एव ते बुधनुतस्य चरितगुणमद्भुतोदयम् । न्यायविहितमवधार्य जिने त्वयि सुप्रसन्नमनसःस्थिता वय।१३०॥
इत्यरिष्टनेमिजिनस्तोत्रम् तमालनीलैः सधनुस्तडिद्गुणैः प्रकीर्णभीमाशनिवायुवृष्टिभिः । बलाहकैर्वैरिवशैरुपद्रुतो महामना यो न चचाल योगतः॥१३॥ बृहत्फणामण्डलमण्डेपन यं स्फुरत्तडिपिङ्गरुचोपसर्गिणाम् ।