________________
प्रथम गुच्छक।
सम्यग्दृष्टिः क्षपयतु ततस्तत्त्वदृष्टया स्फुटन्तौ - ज्ञानज्योतिज्वलति सहज येन पूर्णाचलाञ्चिः ॥ २५॥ रागद्वेषोत्पादकं तत्त्वदृष्टया नान्यद्व्यं वीक्ष्यते किञ्चनापि । सर्वद्रव्योत्पत्तिरन्तश्चकास्ति व्यक्ताऽत्यन्तं स्वस्वभावेन यस्मात्
यदिह भवति रागद्वेषदोषप्रसूतिः कतरदपि परेषां दूषणं नास्ति तत्र । स्वयमयमपराधी तत्र सर्पत्यबोधो
भवतु विदितमस्तं यात्वबोधोऽस्मि बोधः ॥ २७ ॥ रागजन्मनि निमित्ततां परद्रव्यमेव कलयन्ति ये तु ते । उत्तरन्ति न हि मोहवाहिनी शुद्धबोधविधुरान्धबुद्धयः ॥२८॥
पूर्णैकाच्युतशुद्धबोधमहिमा बोद्धा न बोध्यादयं
पापात्कामपि विक्रियां तत इतो दीपः प्रकाशादिष । तद्वस्तुस्थितिबोधबन्धधिषणा एते किमज्ञानिनो रागद्वेषमयीभवन्ति सहजां मुञ्चन्त्युदासीनताम् ॥ २९ ॥
रागद्वेषविभावमुक्तमहसो नित्यं स्वभावस्पृशः पूर्वागामिसमस्तकर्मविकला भिन्नास्तदात्वोदयात् । दूरारूढचरित्रवैभवबलाच्चञ्चच्चिदर्चिष्मयीं
विन्दन्ति स्वरसाभिषिक्तभुवनां शानस्य संचेतनां ॥३०॥ शानस्य संचेतनयैव नित्यं प्रकाशते ज्ञानमतीव शुद्धं । अशानसंचेतनया तु धावन् बोधस्य शुद्धिं निरुणद्धि वन्धः३१ कृतकारितानुमननैस्त्रिकालविषयं मनोवचनकायैः । परिहत्य कर्म सर्व परमं नैष्कर्म्यमघलम्बे ॥ ३२॥ मोहाद्यदहमकार्ष समस्तमपि कर्म तत्प्रतिक्रम्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वत्तें ॥३३॥