SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः। २०९ मोहविलासविजृम्भितमिदमुदयत्कर्म सकलमालोच्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वर्ते ॥३४॥ प्रत्याख्यायभविष्यत्कर्म समस्तं निरस्तसम्मोहः। . आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वः ॥३५॥ समस्तमित्येवमपास्य कर्म त्रैकालिकं शुद्धनयावलम्बी। विलीनमोहो रहितं विकारैश्चिन्मात्रमात्मानमथाऽवलम्बे ॥३६॥ विगलन्तु कर्मविषतरुफलानि मम भुक्तिमन्तरेणैव । संचेतयेऽहमचलं चैतन्यात्मानमात्मानं ॥३७ ॥ निःशेषकर्मफलसंन्यसनात्मनैवं सर्वक्रियान्तरविहारनिवृत्तवृत्तेः । चैतन्यलक्ष्म भजतो भृशमात्मतत्त्वं कालावलीयमचलस्य वहत्वनन्ता ॥ ३८॥ यः पूर्वभावकृतकर्मविषद्रुमाणां . भुते फलानि न खलु स्वत एव तृप्तः । आपातकालरमणीयमुदरम्यं निःकर्मशर्ममयमेति दशान्तरं सः ॥ ३९ ॥ अत्यन्तं भावयित्वा विरतमविरतं कर्मणस्तत्फलाच्च प्रस्पष्टं नाटयित्वा प्रलयनमखिलाशानसंचेतनायाः । पूर्ण कृत्वा स्वभावं स्वरसपरिगतं शानसंचेतनां स्वां सानन्दं नाटयन्तः प्रशमरसमितः सर्वकालं पिबन्तु ॥४०॥ इतः पदार्थप्रथनावगुण्ठनाद्विना कृतेरेकमनाकुलं ज्वलत् । समस्तवस्तुव्यतिरेकनिश्चयाद्विवेचितं शानमिहावतिष्ठते ॥४॥ अन्येभ्यो व्यतिरिक्तमात्मनियतं बिभ्रत् पृथक वस्तुताभादानोज्झनशून्यमेतद्मलं ज्ञानं तथावस्थितम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy