________________
प्रथम गुच्छक |
नैकस्याः प्रकृतेरचित्त्वलसनाज्जीवोऽस्य कर्त्ता ततो जीवस्यैव च कर्म तच्चिदनुगं ज्ञाता न यत्पुद्गलः ॥११॥ कर्मैव प्रवितर्यक र्तृहतकैः क्षिप्त्वात्मनः कर्तृतां कर्त्तामैष कथंचिदित्यचलिता केंश्चित्कृतिः कोपिता । तेषामुद्धतमोहमुद्रितधियां बोधस्य संशुद्धये स्याद्वादप्रतिबन्धलब्ध विजया वस्तुस्थितिः स्तूयते || १२ || मा कर्त्तारममी स्पृशन्तु पुरुषं साङ्ख्या श्वाप्यार्हताः कर्त्तारं कलयन्तु तं किल सदा भेदावबोधादधः । उ तूद्धतबोधधाम नियतं प्रत्यक्षमेनं स्वयं पश्यन्तु च्युतकर्तृभावमचलं ज्ञातारमेकं परम् ॥१३॥ क्षणिकमिदमिहैकः कल्पयित्वात्मतत्त्वं निजमनसि विधत्ते कर्तृभोक्त्रोर्विभेदम् । अपहरति विमोहं तस्य नित्यामृतौघैः स्वयमयमभिषिञ्चंश्चिच्चमत्कार एव ॥ १४ ॥ वृत्यंशभेदतोऽत्यन्तं वृत्तिमन्नाशकल्पनात् । अन्यः करोति भुङ्क्तेऽन्य इत्येकान्तञ्चकास्तु मा ॥ १५ ॥ आत्मानं परिशुद्धमीलुभिरतिव्याप्तिं प्रपद्यान्धकैः कालोपाधिबलादशुद्धिमधिकां तत्रापि मत्वा परैः । चैतन्यं क्षणिक प्रकल्प्य पृथुकैः शुद्धर्ज्जुसुत्रे रतैरात्मा व्युज्झित एष हारवदहो निःसूत्रमुक्तेक्षिभिः ॥ १६ ॥ कर्तुर्वेदयितुश्च युक्तिवशतो भेदोऽस्त्वभेदोऽपि वा कर्त्ता वेदयिता च मा भवतु वा वस्त्वेव सञ्चिन्त्यतां । प्रोता सूत्र इवात्मनीह निपुणैर्भर्तु न शक्या क्वचि - तच्चिन्तामणिमालिकेयमभितोऽप्येका चकास्त्येव नः ॥ १७॥
२०६