________________
नाटकसमयसार कलशाः
२०५
भोक्तृत्वं न स्वभावोऽस्य स्मृतः कर्त्तृत्ववच्चितः । अज्ञानादेव भोक्ताऽयं तदभावादवेदकः ॥ ४ ॥ अज्ञानी प्रकृतिस्वभावनिरतो नित्यं भवेद्वेदको शानी तु प्रकृतिस्वभावविरतो नो जातुचिद्वेदकः । इत्येवं नियमं निरूप्य निपुणैरज्ञानिता त्यज्यतां शुद्धैकात्ममये महस्यचलितैरासेव्यतां ज्ञानिता ॥ ५ ॥ ज्ञानी करोति न न वेदयते च कर्म जानाति केवलमयं किल तत्स्वभावं । जानन्परं करणवेदनयोरभावाच्छुद्धस्वभावनियतः स हि मुक्त एव ॥ ६ ॥
ये
तु कर्त्तारमात्मानं पश्यन्ति तमसा तताः । सामान्यजनवत्तेषां न मोक्षोऽपि मुमुक्षताम् ॥ ७ ॥ नास्ति सर्वोऽपि सम्बन्धः परद्रव्यात्मतत्त्वयोः । कर्त्तृकर्म्मत्वसम्बन्धाभावे तत्कर्त्तृता कुतः ॥ ८ ॥ एकस्य वस्तुन इहान्यतरेण सार्द्धं सम्बन्ध एव सकलोऽपि यतो निषिद्धः । तत्कर्त्तृकर्म्मघटनाऽस्ति न वस्तुभेदे पश्यन्त्वकर्तृमुनयश्च जनाः स्वतस्त्रं ॥ ९ ॥ ये तु स्वभावनियमं कलयन्ति नेममज्ञानमग्नमहसोबत ते वराकाः । कुर्वन्ति कर्म तत एव हि भावकर्म
कर्त्ता स्वयं भवति चेतन एव नान्यः ॥ १० ॥ कार्यत्वादकृतं न कर्म न च तज्जीवप्रकृत्योर्द्वयोग्रन्यस्याः प्रकृतेः स्वकार्यफलभुग्भावानुषङ्गाक्कृतिः ।