SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ૨૦e प्रथम गुच्छका प्रमादकलितः कथं भवति शुद्धभावोऽलसः कषायभरगौरवादलसता प्रमादो यतः । अतः स्वरसनिर्भरे नियमितः स्वभावे भवन् मुनिः परमशुद्धतां व्रजति मुच्यते चाचिरात् ॥ ११ ॥ त्यक्त्वाऽशुद्धिविधायि तकिल परद्रव्यं समग्रं स्वयं स्वद्रव्ये रतिमेति यः स नियतं सर्वापराधच्युतः। बन्धध्वंसमुपेत्य नित्यमुदितः स्वज्योतिरच्छोच्छल. च्चैतन्यामृतपूरपूर्णमहिमा शुद्धो भवन्मुच्यते ॥ १२ ॥ बन्धच्छेदात्कलयदतुलं मोक्षमक्षय्यमेत. नित्योद्योतस्फुटितसहजावस्थमेकान्तशुद्धम् । एकाकारस्वरसभरतोऽत्यन्तगम्भीरधीरं पूर्ण झानं ज्वलितमचले स्वस्य लीनं महिनि ॥ १३ ॥ इति मोक्षो निष्क्रान्तः ॥ ९ ॥ नीत्वा सम्यक् प्रलयमखिलान्कर्तृभोक्रादिभावान् दूरीभूतः प्रतिपदमयं बन्धमोक्षप्रक्लप्तेः । शुद्धः शुद्धस्वरसविसरापूर्णपुण्याचलार्चिघकोत्कीर्णप्रकटमहिमा स्फूर्जति ज्ञानपुञ्जः॥१॥ कर्तृत्वं न स्वाभावोऽस्य चितो वेदयितृत्ववत् । अशानादेव कर्ताऽयं तदभावादकारकः ॥२॥ अकर्ता जीवोऽयं स्थित इति विशुद्धः स्वरसतः स्फुरच्चिज्ज्योतिर्भिश्छुरितभुवनाभागभवनः । तथाप्यस्यासौ स्यादिह किल बन्धः प्रकृतिभिः स खल्वज्ञानस्य स्फुरति महिमा कोऽपि गहनः ॥३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy