________________
नाटकसमयसारकलशा:
अद्वैताऽपि हि चेतना जगति चेदृग्ज्ञप्तिरूपं त्यजे. त्तसामान्यविशेषरूपविरहात्साऽस्तित्वमेव त्यजेत् । तत्त्यागे जडता चितोऽपि भवति व्पाप्यो विना व्यापकादात्मा चान्तमुपैति तेन नियतं दरशप्तिरूपास्तु चित् ॥४॥ एकश्चितश्चिन्मय एव भावो भावाः परे ये किल ते परेषाम् । ग्राहस्ततश्चिन्मय एव भावोभावा परे सर्वत एव हयाः ॥५॥ सिद्धान्तोऽयमुदात्तचित्तचरितैर्मोक्षार्थिभिः सेव्यता शुद्धं चिन्मयमेकमेव परमं ज्योतिः सदैवास्म्यहम् । एते ये तु समुल्लसन्ति विबुधा भावाः पृथलक्षणा. स्तेऽहं नाऽस्मि यतोऽत्र ते मम परद्रव्यं सममा अपि ॥६॥
परद्रव्यग्रहं कुर्वन् बद्ध्येतैवापराधवान् । बचेतानपराधो न स्वद्रव्ये संवृतो मुनिः ॥ ७॥ . अनवरतमनन्तैर्बध्यते सापराधः स्पृशति निरपराधो बन्धनं नैव जातु । नियतमयमशुद्धं स्वं भजन्सापराधो भवति निरपराधः साधुशुद्धात्मसेवी ॥८॥ अतो हताः प्रमादिनो गताः सुखासीनता प्रलीनं चापलमुन्मूलितमालम्बनमात्म. न्येवालानितं च चित्तमा. संपूर्णविज्ञानघनोपलब्धेः॥९॥ (१) यत्र प्रतिक्रमणमेव विषं प्रणीतम् तत्राप्रतिक्रमणमेव सुधा कुतः स्यात् । तत्कि प्रमाधति जनः प्रपतनधोऽध: किं नोईमूर्द्धमधिरोहति निःप्रमादः ॥१०॥