________________
૨૦૨
-
प्रथम गुच्छक।
इति वस्तुस्वभावं स्वं नाज्ञानी वेत्ति तेन सः। रागादीनात्मनः कुर्यादतो भवति कारकः ॥ १५॥ इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्रं बला. तन्मूलां बहुभावसन्ततिमिमामुद्धर्तुकामः समम् । आत्मानं समुपैति निर्भरवहत्पूर्णैकसंविद्युतम् येनोन्मूलितबन्ध एष भगवानात्माऽऽत्मनि स्फूर्जति ॥१६॥ रागादीनामुदयमदयं दारयत्कारणानां कार्य बन्धं विविधमधुना सद्य एव प्रणुध । ज्ञानज्योतिः क्षपिततिमिरं साधु सन्नद्धमेततधद्वत्प्रसरमपरः कोऽपि नास्यावृणोति ॥ १७ ॥
इति धन्धो निष्क्रान्तः ॥ ८ ॥
द्विधाकृत्य प्रज्ञाक्रकचदलनाद्वन्धपुरुषा नयन्मोक्षं साक्षात्पुरुषमुपलम्भैकनियतं । इदानीमुन्मजत्सहजपरमानन्दसरसं
परं पूर्ण शानं कृतसकलकृत्यं विजयते ॥ १॥ प्रज्ञाच्छेत्री शितेयं कथमपि निपुणैः पातिता सावधानः सूक्ष्मेऽन्तःसन्धिबन्धे निपतति रभसादात्मकर्मोभयस्य । आत्मानं मनमन्तःस्थिरविशदलसद्धान्नि चैतन्यपूरे बन्धं चाशानभावे नियमितमभितः कुर्वती भिन्नभिन्नौ ॥२॥ भित्त्वा सर्वमपि स्वलक्षणबलाद्भत्तं हि यच्छक्यते चिन्मुद्राङ्कितनिर्विभागमहिमा शुद्धश्चिदेवास्म्यहम् । भिधन्ते यदि कारकाणि यदि वा धर्मा गुणा वा यदि भियन्तां न भिदाऽस्ति काचन विभौ भावे विशुद्ध निति ॥ ३॥