________________
नाटकसमयसारकलशाः
२०१
सर्व सदैव नियतं भवति स्वकीयकर्मोदयान्मरणजीवितदुःखसौख्यम् । अशानमेतदिह यत्तु परः परस्य कुर्यात्पुमान् मरणजीवितदुःखसौख्यम् ॥ ६ ॥ अशानमेतदधिगम्य परात्परस्य पश्यन्ति ये मरणजीवितदुःखसौख्यम् । कर्माण्यहंकृतिरसेन चिकीर्षवस्ते मिथ्याशो नियतमात्महनो भवन्ति ॥ ७॥ मिथ्यादृष्टः स एवास्य बन्धहेतुर्विपर्ययात् । य एवाध्यवसायोऽयमज्ञानात्माऽस्य दृश्यते ॥ ८॥ अनेनाध्यवसायेन निःफलेन विमोहितः।
तत्किञ्चनापि नैवाऽस्ति नात्माऽऽत्मानं करोति यत् ॥९॥ विश्वाद्विभक्तोऽपि हि यत्प्रभावादात्मानमात्मा विदधाति विश्वम् मोहैककन्दोऽध्यवसाय एष नास्तीह येषां यतयस्त एव ॥१०॥
सर्वत्राध्यवसानमेवमखिलं त्याज्यं यदुक्तं जिनै. स्तन्मन्ये व्यवहार एव निखिलोऽप्यन्याश्रयस्त्याजितः। सम्यग्निश्चयमेकमेव तदमी निःकम्पमाक्रम्य किं
शुद्धज्ञानघने महिन्नि न निजे बध्नन्ति संतो धृतिम् ॥११॥ रागादयो बन्धनिदानमुक्तास्ते शुद्धचिन्मात्रमहोतिरिक्ताः। आत्मा परो वा किमु तन्निमित्तामति प्रणुनाः पुनरेवमाः॥१२॥ न जातुरागादिनिमित्तभावमात्माऽऽत्मनो ग्राति यथार्ककान्तः । तस्मिानिमित्तं परसङ्ग एव वस्तुस्वभावोऽयमुदेति तावत् ॥१३॥ इति वस्तुस्वभावं स्वं ज्ञानी जानाति तेन सः। रागादीनात्मनः कुर्यानातो भवति कारकः ॥ १४ ॥