________________
२००
प्रथम गुच्छक।
सम्यग्दृष्टिः स्वयमतिरसादादिमध्यान्तमुक्तं शानं भूत्वा नटति गगनाभोगरङ्गं विगाह्य ॥ ३० ॥
इति निर्जरा निष्क्रान्ता ॥ ७ ॥
रागोगारमहारसेन सकलं कृत्वा प्रमत्तं जगस्क्रीडन्तं रसभारनिर्भरमहानाट्येन बन्धं धुनत् । आनन्दामृतनित्यभोजिसहजावस्थां स्फुटन्नाटय. धीरोदारमनाकुलं निरुपधिज्ञानं समुन्मजति ॥ १॥ न कर्मबहुलं जगनचलनात्मकं कर्मवा. ननेककरणानि वा न चिदचिद्वधो बन्धकृत् । यदैक्यमुपयोगभूः समुपयाति रागादिभिः
स एव किल केवलं भवति बन्धहेतुर्नृणाम् ॥२॥ लोकः कर्म ततोऽस्तु सोऽस्तु च परिस्पन्दात्मकं कर्मत. सान्यस्मिन् करणानि सन्तु चिदचियापादनं चास्तु तत् । रागादीनुपयोगभूमिमनयद् ज्ञानं भवेत् केवलं बन्धं नैव कुतोऽप्युपैत्ययमहो सम्यग्दृगात्मा ध्रुवं ॥ ३ ॥ तथापि न निरर्गलं चरितुमिप्यते शानिनां तदायतनमेव सा किल निरर्गला व्यावृतिः। अकामकृतकर्म तन्मतमकारणं शानिनां द्वयं न हि विरुधते किमु करोति जानाति च ॥ ४ ॥
जानाति यः स न करोति करोति यस्तु जानात्ययं न खलु तत्किल कर्मरागः । रागं त्वबोधमयमध्यवसायमाहु. मिथ्यादृशः स नियतं स च बन्धहेतुः॥५॥