SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः नैवान्यागतवेदनैव हि भवेत्तद्भीः कुतो मानिनो निःशङ्कः सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥२४॥ यत्सनाशमुपैति तन्न नियतं व्यक्तेति वस्तुस्थिति निं सत्स्वयमेव तकिल ततस्त्रातं किमस्यापरैः। अस्यात्राणमतो न किञ्चन भवेत्तद्रीः कुतो शानिनो निःशङ्कः सततं स्वयं स सहज ज्ञानं सदा विन्दति ॥२५॥ स्वं रूपं किल वस्तुनोऽस्ति परमा गुप्तिः स्वरूपेण य. च्छक्तः कोऽपि परः प्रवेष्टुमकृतं ज्ञानं स्वरूपं च नुः । अस्या गुप्तिरतो न काचन भवेत्तद्भीः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं स सहजं शान सदा विन्दति ॥२६॥ प्राणोच्छेदमुदाहरन्ति मरणं प्राणाः किलास्यात्मनो ज्ञानं तत्स्वयमेव शाश्वततया नोच्छिद्यते जातुचित् । तस्यातो मरणं न किञ्चन भवेत्तद्भीः कुतो शानिनो निःशङ्कः सततं स्वयं स सहज ज्ञानं सदा विन्दति ॥ २७ ॥ रकं ज्ञानमनाद्यनन्तमचलं सिद्ध किलैतत्स्वतो यावत्तावदिदं सदैव हि भवेत्रात्र द्वितीयोदयः। तन्नाकस्मिकमत्र किञ्चन भवेत्तद्भीः कुतो शानिनो निःशङ्कः सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥ २८ ॥ टकोत्कीर्णस्वरसनिचितज्ञानसर्वस्वभाजः सम्यग्दृष्टेयदिह सकलं नन्ति लक्ष्माणि कर्म । तत्तस्यास्मिन्पुनरपि ममाक् कर्मणो नास्ति बन्धः पूर्वोपात्तं तदनुभवतो निश्चितं निर्जरैव ॥ २९ ॥ रुन्धन्बन्धं नवमिति निजैः सङ्गतोऽष्टाभिरङ्गैः प्राग्बद्धं तु क्षयमुपनयनिजरोज्जृम्भणेन ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy