________________
प्रथम गुच्छक ।
अज्ञानं न कदाचनापि हि भवेत् शानं भवेत्सन्ततम् शानिन् भुश्व परापराधजनितो नास्तीह बन्धस्तव ॥१८॥ शानिन् कर्म न जातु कतुंमुचितं किश्चित्तथाप्युच्यते भुझे हन्त न जातु मे यदि परं दुर्भुक्त एवासि भोः। वन्धः स्यादुपभोगतो यदि न तकि कामचारोऽस्ति ते शानं सच्च सबन्धमेष्यपरथा स्वस्यापराधाभ्रुवम् ॥ १९ ॥ कर्तारं वफलेन यत्किल बलात्कमैव नो योजयेत् कुर्वाणः फललिप्सुरेव हि फलं प्राप्नोति यत्कर्मणः । ज्ञानं संस्तदपास्तरागरचनो नो बध्यते कर्मणा कुर्वाणोऽपि हि कर्म तत्फलपरित्यागैकशीलो मुनिः ॥२०॥ त्यक्तं येन फलं स कर्म कुरुते नेति प्रतीमो वयं किन्त्वस्यापि कुतोऽपि किश्चिदपि तत्कर्मावशेनापतेत् । तस्मिन्नापतिते त्वकम्पपरमज्ञानस्वभावे स्थितो ज्ञानी किं कुरुतेऽथ किं न कुरुते कम्र्मेति जानाति कः ॥२१॥ सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमन्ते परं यद्वजेऽपि पतत्यमी भयचलत्त्रैलोक्यमुक्तावनि । सर्वामेव निसर्गनिर्भयतया शङ्कां विहाय स्वयं जानन्तः स्वमवध्यबोधवपुषं बोधाच्च्यवन्ते न हि ॥ २२ ॥ लोकः शाश्वत एक एष सकलत्यक्तो विविक्तात्मनचिल्लोकं स्वयमेव केवलमयं यल्लोकयत्येककः। लोको यन्न तवापरस्तदपरस्तस्यास्ति तद्भीः कुतो निःशङ्कः सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥ २३ ॥ एषैकैव हि वेदना यदचलं ज्ञानं स्वयं वेद्यते निर्भेदोदितवेद्यवेदकबलादकं सदानाकुलैः ।