________________
नाटकसमयसारकलशाः
१९७
अच्छाच्छाः स्वयमुच्छलन्ति यदिमाः संवेदनव्यक्तयो निष्पीताखिलभावमण्डलरसप्रागभारमत्ता इव। यस्याभिन्नरसः स एष भगवानेकोऽप्यनेकीभवम् वलगत्युत्कलिकाभिरद्भुतनिधिश्चैतन्यरत्नाकरः ॥ ९॥ क्लिश्यन्तां स्वयमेव दुष्करतरैर्मोक्षोन्मुखैः कर्मभिः क्लिश्यन्तां च परे महावृततपोभारेण भग्नाश्चिरं । साक्षान्मोक्ष इदं निरामयपदं संवेद्यमानं स्वयं
शानं ज्ञानगुणं विना कथमपि प्राप्तुं क्षमन्ते न हि ॥ १० ॥ पदमिदं ननु कर्मदुरासदं सहजबोधकलासुलभं किल । तत इदं निजबोधकलाबलात्कलयितुंयततां सततं जगत् ॥११॥ अचिन्त्यशक्तिः स्वयमेव देवश्चिन्मात्रचिन्तामणिरेष यस्मात् । सर्वार्थसिद्धात्मतया विधत्ते ज्ञानी किमन्यस्य परिग्रहेण ॥१२॥ इत्थं परिग्रहमपास्य समस्तमेव सामान्यतःस्वपरयोरविवेकहेतुं । अज्ञानमुज्झितुमना अधुना विशेषाद्भूयस्तमेव परिहर्तुमयं प्रवृत्तः पूर्वबद्धनिजकर्मविपाकाद् शानिनो यदि भवत्युपयोगः । तद्भवत्वथ च रागवियोगान्नूनमेति न परिग्रहभावम् ॥ १४ ॥ वेद्यवेदकविभावचलत्वाद्वेद्यते न खलु कासितमेव । तेन काङ्क्षति न किञ्चन विद्वान् सर्वतोऽप्यतिविरक्तिमुपैति ॥१५॥ ज्ञानिनो न हि परिग्रहभावं कर्मरागरसरिक्ततयैति । रङ्गयुक्तिरकषायितवस्त्रे स्वीकृतैव हि बहि ठतीह ॥ १६ ॥ ज्ञानवान् स्वरसतोऽपि यतः स्यात्सर्वरागरसवर्जनशीलः । लिप्यते सकलकर्मभिरेषः कर्ममध्यपतितोऽपि ततो न ॥१७॥ यादृक् तादृगिहास्ति तस्य वशतो यस्य स्वभावो हि यः कर्तुं नैष कथंचनापि हि परैरन्याशः शक्यते ।