________________
१९४
प्रथम गुच्छक।
रागादिमुक्तमनसः सततं भवन्तः पश्यन्ति बन्धविधुरं समयस्य सारं ॥ ८॥ प्रच्युत्य शुद्धनयतः पुनरेव ये तु रागादियोगमुपयान्ति विमुक्तबोधाः । ते कर्मबन्धमिह बिभ्रति पूर्वबद्ध
द्रव्यानवैः कृतविचित्रविकल्पजालम् ॥९॥ इदमेवात्र तात्पर्य हेयः शुद्धनयो न हि। नास्ति बन्धस्तदत्यागात्तत्यागाद्वन्ध एव हि ॥ १० ॥ धीरोदारमहिम्न्यनादिनिधने बोधे निबध्नन्धृतिम् त्याज्यः शुद्धनयो न जातु कृतिभिः सर्वकषः कर्मणाम् । तत्रस्थाः स्वमरीचिचक्रमचिरात्संहृत्य निर्यद्वहिः पूर्ण ज्ञानघनौघमेकमचलं पश्यन्ति शान्तं महः ॥ ११ ॥ रागादीनां झगिति विगमात्सर्वतोऽप्यास्त्रवाणां नित्योद्योतं किमपि परमं वस्तु सम्पश्यतोऽन्तः । स्फारस्फारैः स्वरसविसरैः प्लावयत्सर्वभावानालोकान्तादचलमतुलं ज्ञानमुन्मग्नमेतत् ॥ १२ ॥
इत्यास्रवो निष्क्रान्तः ॥ ५ ॥
आसंसारविरोधिसंवरजयैकान्तावलिप्तास्रव. न्यक्कारात्प्रतिलब्धनित्यविजयं सम्पादयत्संवरम् । व्यावृत्तंपररूपतो नियमित सम्यक् स्वरूपे स्फुर• ज्योतिश्चिन्मयमुज्ज्वलं निजरसप्राग्भारमुज्जृम्भते ॥१॥ चैदूप्यं जडापतां च दधतोः कृत्वा विभाग द्वयो. रन्तरुणदारयोन परितो शानस्य रागस्य च ।