SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः १९३ हेलोन्मीलत्परमकलया सार्द्धमारब्धकेलि ज्ञानज्योतिः कवलिततमः प्रोज्जजम्भे भरेण ॥ १३ ॥ इति पुण्यपापाधिकारः ॥ ४ ॥ Copyr अथ महामदनिर्भरमन्थरं समररङ्गपरागत मानवं । अयमुदारगभीरमहोदयो जयति दुर्जयबोधधनुर्द्धरः ॥ १ ॥ भावो रागद्वेषमोहैर्विना या जीवस्य स्याद् ज्ञाननिर्वृत्त एव । रुन्धन्सर्वान् द्रव्यकर्मास्रवौघानेषो भावः सर्वभावास्रवाणाम् ॥२॥ भावास्त्रवाभावमयं प्रपन्नो द्रव्यास्त्रवेभ्यः स्वत एव भिन्नः । ज्ञानी सदा ज्ञानमयैकभावो निरास्रवो ज्ञायक एक एव ॥ ३ ॥ सन्न्यस्यन्निजबुद्धिपूर्वमनिशं रागं समग्रं स्वयम् वारंवार मबुद्धिपूर्वमपि तं जेतुं स्वशक्तिं स्पृशन् । उच्छिन्दन् परवृत्तिमेव सकलां शानस्य पूर्णो भवनात्मा नित्यनिरास्त्रवो भवति हि ज्ञानी यदा स्यात्तदा ॥ ४ ॥ सर्वस्यामेव जीवन्त्यान्द्रव्यप्रत्ययसंततौ । कुतो निरास्रवो शानी नित्यमेवेति चेन्मतिः ॥ ५ ॥ विजहति न हि सत्तां प्रत्ययाः पूर्वबद्धाः समयमनुसरन्तो यद्यपि द्रव्यरूपाः । तदपि सकलरागद्वेषमोहव्युदासादवतरति न जातु ज्ञानिनः कर्मबन्धः ॥ ६ ॥ रागद्वेषविमोहानां ज्ञानिनो यदसंभवः । तत एव न बन्धोऽस्य ते हि बन्धस्य कारणम् ॥ ७ ॥ अध्यास्य शुद्धनयमुद्धतबोधचिह्नमैकाग्यूमेव कलयन्ति सदैव ये ते । १३
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy