________________
१९२
प्रथम गुच्छक ।
शिवस्यायं हेतुः स्वयमपि यतस्तच्छिव इति । अतोऽन्यबन्धस्य स्वयमपि यतो बन्ध इति तत् । ततो ज्ञानात्मत्वं भवनमनुभूतिर्हि विहितं ॥ ६ ॥ वृत्तं ज्ञानस्वभावेन ज्ञानस्य भवनं सदा । एकद्रव्यस्वभावत्वान्मोक्षहेतुस्तदेव तत् ॥ ७ ॥ वृत्तं कर्मस्वभावेन ज्ञानस्य भवनं न हि । द्रव्यान्तरस्वभावत्वान्मोक्षहेतुर्न कर्म तत् ॥ ८ ॥ मोक्ष हेतुतिरोधानाबन्धत्वात्स्वयमेव च । मोक्षहेतुतिरोधायि भावत्वात्तनिषिध्यते ॥ ९ ॥ संन्यस्तव्यमिदं समस्तमपि तत्कर्मैव मोक्षार्थिना सन्यस्ते सति तत्र का किल कथा पुण्यस्य पापस्य वा । सम्यक्त्वौदिनिजस्वभावभवनान्मोक्षस्य हेतुर्भवनैः कर्मप्रतिबद्ध मुद्धतरसं ज्ञानं स्वयं धावति ॥ १० ॥ यावत्पाकमुपैति कर्मविरतिर्ज्ञानस्यं सम्यङ् न सा कर्मज्ञानसमुच्चयोsपि विहितस्तावन्न काचित्क्षतिः । किं त्वत्रापि समुल्लसत्यवशतो यत्कर्म बन्धाय तन्मोक्षाय स्थितमेकमेव परमं ज्ञानं विमुक्तं स्वतः ॥ ११ ॥ 'मग्नाः कर्मनयावलम्बनपरा ज्ञानं न जानन्ति यन्मना शाननयैषिणोऽपि यदतिस्वच्छन्दमन्दोद्यमाः । विश्वस्योपरि ते तरन्ति सततं ज्ञानं भवन्तः स्वयं ये कुर्वन्ति न कर्म जातु न वशं यान्ति प्रमादस्य च ॥ १२ ॥ भेदोन्मादं भ्रमरसभरान्नाटयस्थीतमोहं
मूलोन्मूलं सकलमपि तत्कर्म कृत्वा बलेन ।