________________
नाटकसमयसारकलशाः ।
ज्ञाता शातरि कर्म कर्मणि सदा व्यक्तेति वस्तुस्थितिनेपथ्ये बत नानटीति रभसान्मोहस्तथाप्येष किं ॥५३॥ की कर्त्ता भवति न यथा कर्म कर्मापि नैव शानं ज्ञानं भवति च यथा पुद्गलः पुद्गलोऽपि । ज्ञानज्योतिर्ध्वलितमचलं व्यक्तमन्तस्तथोच्चैश्चिच्छक्तीनां निकरभरतोऽत्यन्तगम्भीरमेतत् ॥ ५४॥
इति कर्तृकर्माधिकारः ॥३॥
तदथ कर्म शुभाशुभभेदतो द्वितयतां गतमैक्यमुपानयन् । ग्लपितनिर्भरमोहरजा अयं स्वयमुदेत्यबोधसुधाप्लवः ॥ १॥
एको दूरात्यजति मदिरां ब्राह्मणत्वाभिमाना. दन्यः शूद्रः स्वयमहमिति नाति नित्यं तयैव । द्वावप्येतौ युगपदुराग्निर्गतौ शूद्रिकायाः
शूद्रौ साक्षादथ च चरतो जातिभेदभ्रमेण ॥२॥ हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदान्न हि कर्मभेदः । तद्वन्धमार्गाश्रितमकमिष्टं स्वयं समस्तं खलु बन्धहेतुः ॥३॥ कर्म सर्वमपि सर्वविदो यद्बन्धसाधनमुशन्त्यविशेषात् । तेन सर्वमपि तत्प्रतिषिद्धं ज्ञानमेव विहितं शिवहेतुः ॥४॥ निषिद्ध सर्वस्मिन् सुकृतदुरिते कर्मणि किल प्रवृत्ते नैःकस्य न खलु मुनयः सन्त्यशरणाः। तदा ज्ञाने ज्ञानं प्रतिचरितमेषां हि शरणं स्वयं विन्दन्त्येते परमममृतं तत्र निरताः॥५॥ यदेतद् ज्ञानात्मा ध्रुवमचलमाभाति भवनं