________________
नाटकसमयसारकलशा:
भेदज्ञानमुदेति निर्मलमिदं मोदध्वमध्यासिताः शुद्धज्ञानघनौघमेकमधुना सन्तो द्वितीयच्युताः ॥२॥
यदि कथमपि धारावाहिना बोधनेन ध्रुवमुपलभमानः शुद्धमात्मानमास्ते । तदयमुदयदात्माराममात्मानमात्मा परपरिणतिरोधाच्छुद्धमेवाभ्युपैति ॥३॥ निजमहिमरतानां भेदविज्ञानशक्त्या भवति नियतमेषां शुद्धतत्त्वोपलम्भः । अचलितमखिलान्यद्रव्यदूरेस्थितानां
भवति सति च तस्मिन्नक्षयः कर्ममोक्षः ॥ ४॥ सम्पद्यते संवर एष साक्षाच्छुद्धात्मतत्त्वस्य किलोपलम्भात् । स भेदविज्ञानत एव तस्मात्तद्भेदविज्ञानमतीव भाव्यम् ॥५॥
भावयेद्भेदविज्ञानमिदमच्छिन्नधारया । तावद्यावत्पराच्छुत्वा ज्ञानं शाने प्रतिष्ठते ॥ ६ ॥ भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन । तस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ ७ ॥ भेदशानोच्छलनकलनाच्छुद्धतत्त्वोपलम्भाद्रागग्रामप्रलयकरणात्कर्मणां संवरेण । बिभ्रत्तोषं परमममलालोकमम्लानमेकं शानं ज्ञाने नियतमुदितं शाश्वतोद्योतमेतत् ॥ ८॥
हाते संवरो निष्क्रान्तः ॥ ६ ॥
रागाद्यास्रवरोधतो निजधुरान्धृत्वा परः संघरः कागामि समस्तव भरतो दूरान्निरुन्धन स्थितः ।