________________
बृहत्स्वयम्भूस्तोत्रम्। अनेकान्तः प्रमाणान्ते तदेकान्तोर्पितान्न थात् ॥ १०३ ॥ इति निरुपमयुक्तिशालनः प्रियहितयोगगुणानुशासनः । अरजिनदमतीर्थनायकस्त्वमिव सतां प्रतिबोधनायकः१०४ मतिगुणविभवानुरूपतस्त्वयि वरदागमदृष्टिरूपतः । गुणकशमपि किञ्चनोदितंमम भवता दुरिताशनोदितम्।०५
इत्यरजिनस्तोत्रम्. यस्य महर्षेःसकल पदार्थप्रत्यवबोधः समजनि साक्षात् । सामरमत्त्यं जगदपि सर्व प्राञ्जलिभूत्वा प्रणिपतति स्म ॥१०॥ यस्य च मूर्तिः कनकमयीव स्वस्फुरदाभाकृतपरिवेषा। वागपि तत्त्वं कथयितुकामा स्यात्पदपूर्वा रमयति साधून् ।१०७। यस्य पुरस्ताद्विगलितमाना न प्रतितीर्थ्या भुवि विवदन्ते । भूरपि रम्या प्रतिपदमासीजातविकोशाम्बुजमृदुहासा॥१०॥ यस्य समन्ताजिनशिशिरांशोः शिष्यकसाधुग्रहविभवो भूत् । तीर्थमपि स्वं जननसमुदत्रासितसत्त्वोत्तरणपथो प्रम् ॥१०६।। यस्य च शुक्लं परमतमोऽग्निानमनन्तं दुरितमधाक्षीत् । तं जिनसिंहं कृतकरणीयं मल्लिमशल्यं शरणमितोऽस्मि ॥११० ।।
इति मल्लिजिनस्तोत्रम्. अधिगतमुनिसुव्रतस्थितिर्मुनिवृषभो मुनिसुव्रतो नघः । मुनिपरिषदि नि भौ भवातुडुपरिषत्परिवीतसोमवत् ॥११॥ परिणतशिखिमराठरागया कृतमदनिग्रहविग्रहाभयो । भवजिनतपसः प्रसूतया ग्रहपरिवेषरुचेव शोभितम् ॥११२॥ शशिरुचिशुचिशुक्तलोहितं सुरभितरं विरजो निजं वपुः। तब शिवमतिविस्मयं यते यदपि च वाङ्मनसोऽयमीहितम् ।११३॥ स्थितिजनननिरोधलक्षणं चरमचरं च जगत्प्रतिक्षणम् ।