________________
प्रथम गुच्छक।
व्याप्यव्यापकता तदात्मनि भवेनैवातदात्मन्यपि व्याप्यव्यापकभावसम्भवमृते का कर्तृकर्मस्थितिः। इत्युदामविवेकघस्मरमहो मारेण भिन्दंस्तमो
शानीभूय तदा स एष लसितः कर्तृत्वशून्यः पुमान् ॥ ४॥ शानी जाननपीमां स्वपरपरिणतिं पुद्गलश्चाप्यजानन् व्याप्तृव्याप्यत्वमन्तः कलयितुमसही नित्यमत्यन्तभेदात् । अज्ञानात्कर्तृकर्मभ्रममतिरनयोर्भाति तावन्न याव. द्विज्ञानाञ्चिश्चकास्ति क्रकचवदयं भेदमुत्पाद्य सद्यः ॥५॥ यः परिणमति स कर्ता यः परिणामो भवेत्तु तत्कर्म । या परिणतिः क्रिया सा त्रयमपि भिन्नं न वस्तुतया ॥ ६ ॥ एकः परिणमति सदा परिणामो जायते सदैकस्य । एकस्य परिणातः स्यादनेकमप्येकमेव यतः ।। ७॥ मोभी परिणमतः खलु परिणामो नोभयोः प्रजायेत । उभयोर्न परिणतिः स्याद्यदनेकमनेकमेव सदा ॥ ८ ॥ नैकस्य हि कर्तारौ द्वौ स्तो द्वे कर्मणी न चैकस्य । नैकस्यं च क्रिये द्वे एकमनेकं यतो न स्यात् ॥ ९ ॥
आसंसारत एव धावति परं कुर्वेऽहमित्युच्चकै. दुर्वारं नर्नु मोहिनामिह महाहङ्काररूपं तमः । तद्भूतार्थपरिग्रहेण विलयं यद्येकवारं व्रजे. त्तत्कि शानधनस्य बन्धनमहो भूयो भवेदात्मनः ॥ १०॥ आत्मभावान्करोत्यात्मा परभावान्सदा परः । आत्मैव ह्यात्मनो भावाः परस्य पर एव ते ॥ ११ ॥ __अज्ञानतस्तु स तृणाभ्यवहारकारी
झानं स्वयं किल भवन्नपि रज्यते यः। ..