SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः। अशानिनो निरवधिप्रविज़म्भितोऽयं मोहस्तु तत्कथमहो बत नानटीति ॥ ११ ॥ अस्मिानादिनि महत्यविवेकनाट्ये वर्णादिमानटति पुगल एक नान्यः। रागादिपुरलविकारविरुद्धशुद्धचैतन्यधातुमयमूर्तिरयं च जीवः ॥ १२ ॥ इत्थं ज्ञानक्रकचकलनापाटनं नादायित्वा जीवाजीवौ स्फुटविघटनं नैव यावत्प्रयातः । विश्वं व्याप्य प्रसभविकशक्तचिन्मात्रशक्त्या मातृदन्यं स्वयमतिरसात्तावदुधकाशे ॥ १३ ॥ . इति. जीवाजीवाधिकारः ॥ २ ॥ एकः कर्ता चिवहमिह मे कर्म कोपादयोऽमी इत्यज्ञानां शमयदभितः कर्तृकर्मप्रवृत्ति । ज्ञानज्योतिः स्फुरति परमोदात्यमत्यन्तधीरं साक्षात्कुर्वनिरुपधिपृथग्द्रव्यनिर्भासि विश्वं ॥१॥ परपरिणतिमुज्यत् खंड्यद्भेदवादानिदमुदितमखण्डं ज्ञानमुचण्डमुः। ननु कथमवकाशः कर्तृकर्मप्रवृत्ते. रिह भवति कथं वा पौद्रलः कर्मबन्धः ॥२॥ इत्येव विरचय्य संप्रति परद्रव्यानिवृत्ति परांस्वं विज्ञानघनस्वभावमभयादास्तिनुवानः परं । अज्ञानोत्थितकर्तृकर्मकलनात् क्लेशानिवृत्तः स्वयं शानीभूत इतश्चकास्ति जगतः साक्षी पुराणः पुमान् ॥३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy