________________
-
प्रथम गुच्छक ।
हृदयसरसि पुंसः पुगलाद्भिनधास्नो मनु किमनुपलब्धिर्भाति किं चोपलब्धिः ॥२॥ चिच्छक्तिव्याप्तसर्वस्वसारो जीव इयानयं । अतोऽतिरिक्ताः सर्वेऽपि भावाः पौगालिका अमी॥ ३॥ सकलमपि विहायालाय चिच्छक्तिरिक्तं स्फुटतरमवगाह्य स्वं च चिच्छक्तिमात्र। इममुपरि चरन्तं चारु विश्वस्य साक्षात्
कलयतु परमात्मात्मानमात्मन्यनन्तं ॥४॥ वर्णाद्या वा रागमोहादयो वा भिन्ना भावाः सर्व एवास्य पुंसः। तेनैवान्तस्तत्त्वतः पश्यतोऽमी नो दृष्टाः स्युरष्टमेकं परं स्यात् ॥५॥ निर्वय॑ते येन यत्र किंचित्तदेव तत्स्यान कथंचनान्यत् । रुक्मेण निवृत्तमिहासिकोशं पश्यन्ति रुक्मन कथंचनासिं ॥६॥ वर्णादिसामग्यूमिदं विदन्तु निर्माणमेकस्य हि पुद्रलस्य । ततोऽस्त्विदं पुरल एव नात्मा यतःस विज्ञानधनस्ततोऽन्यः॥७॥
घृतकुम्भाभिधानेऽपि कुम्भो घृतमयो न चेत् । जीवो वर्णादिमजीवो जल्पनेऽपि न तत्मयः ॥ ८॥ अनाधनन्तमचलं स्वसंवेद्यमिदं स्फुटम् । जीवः स्वयं तु चैतन्यमुच्चैश्चकचकायते ॥ ९ ॥ वर्णाद्यैः सहितस्तथा विरहितो वैधास्त्यजीवो यतो नामृतत्वमुपास्य पश्यति जगज्जीवस्य तत्त्वं ततः । इत्यालोच्य विवेचकैः समुचितं नाव्याप्यतिव्यापि बा व्यक्तं व्यञ्जितजीवतत्त्वमचलं चैतन्यमालम्ब्यतां ॥ १०॥
जीवादजीवमिति लक्षणतो विभिन्नं शानी जनोऽनुवभवति स्वयमुल्लसन्तं ।