________________
नाटकसमयसारकलशाः।
अवतरति न बोधो बोधमेवाध कस्य स्वरसरभसकृष्टः प्रस्फुरक एव ॥ २८ ॥ अवतरति न यावद्वत्तिमत्यन्तवेगा. दनयमपरभावत्यागदृष्टान्तहष्टिः। झटिति सकलभावैरन्यदीयैर्विमुक्ता
स्वयमियमनुभूतिस्तावदाविर्बभूव ॥ २९ ॥ सर्वतः स्वरसनिर्भरभावं चेतये स्वयमहं स्वमिहैकं । नास्ति नास्ति मम कश्चन मोहः शुद्धचिद्धनमहोनिधिरस्मि ॥३०॥
इति सति सह सर्वैरन्यभावैर्विवेके स्वयमयमुपयोगो बिभ्रदात्मानमेकं । प्रकटितपरमार्थदर्शनशानवृत्तैः कृतपरिणतिरात्माराम एव प्रवृत्तः ॥३१॥ मजन्तु निर्भरममी सममेव लोका आलोकमुच्छ्रलति शान्तरसे समस्ताः। आप्लाव्य विभ्रमतिरस्करिणी भरेण प्रोन्मग्न एष भगवानववोधसिन्धुः ॥३२॥
इति रंगभूमिका ॥ १ ॥
जीवाजीवविवेकपुष्कलशा प्रत्यावयत्पार्षदा नासंसारनिबद्धबन्धनविधिध्वंसाद्विशुद्धं स्फुटत् । आत्माराममनन्तधाममहसाध्यक्षेण नित्योदितं धीरोदात्तमनाकुलं विलसति शानं मनो हादयत् ॥ १ ॥ विरम किमपरेणाकार्यकोलाहलेन स्वयमपि निभृतः सन् पश्य षण्मासमेकं । .