________________
नाटकसमयसारकलशाः।
१८१
आत्मानुभूतिरिति शुद्धनयात्मिका या मानानुभूतिरियमेव किलेति बुचा। आत्मानमात्मनि निविश्य सुनिःप्रकम्प. मेकोऽस्ति नित्यमवबोधधनः समन्तात् ॥ १३ ॥ अखण्डितमनाकुलं ज्वलदनन्तमन्तर्बहि. महः परममस्तु नः सहजमुद्विलासं सदा। चिदुच्छलननिर्भरं सकलकालमालम्बते यदेकरसमुल्लसल्लवणखिल्यलीलायितं ॥ १४ ॥ एष शानघनो नित्यमात्मा सिद्धिमभीप्सुभिः। साध्यसाधकभावेन द्विधैकः समुपास्थताम् ॥ १५॥ दर्शनशानचारित्रस्त्रित्वादेकत्वतः स्वयम्। मेचकोऽमेचकश्चापि सममात्मा प्रमाणतः ॥१६॥ दर्शनशानचारित्रिभिः परिणतत्वतः।। एकोऽपि त्रिस्वभावत्वाद्यवहारेण मेचकः ॥ १७ ॥ परमार्थेन तु व्यक्तज्ञातृत्वज्योतिषैककः । सर्वभावान्तरध्वंसिस्वमावत्वादमेचकः १८॥ आत्मनश्चिन्तयैवालं मेचकामेचकत्वयोः। दर्शनशानचारित्रैः साध्यसिद्धिर्न चान्यथा ॥ १९ ॥ कथमपि समुपात्तत्रित्वमप्येकताया मपतितमिदमात्मज्योतिरुद्रच्छदच्छम् । सततमनुभवामोऽनन्तचैतन्यचिह्नम् न खलु न खलु यस्मादन्यथा साध्यसिद्धिः ॥ २० ॥ कथमपि हि लभन्ते भेदविज्ञानमूला. मचलितमनुभूति ये स्वतो वान्यतो वा।