SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८० प्रथम गुच्छक। एकत्वे नियतस्य शुधनयतो व्याप्तुर्यदस्यात्मनः पूर्णशानघनस्य दर्शनमिह द्रव्यान्तरेभ्यः पृथक् । सम्यग्दर्शनमेतदेवनियमादात्मा च तावानयम् तन्मुक्तानघतरवसन्ततिमिमामात्मायमेकोऽस्तु नः ॥ ६ ॥ अतः शुद्धनयायत्तं प्रत्यग्ज्योतिश्चकास्ति तत् । नवतत्त्वगतत्वेऽपि यदेकत्वं न मुञ्चति ॥ ७ ॥ चिरमिति नवतत्त्वच्छन्नमुन्नीयमानं कनकमिव निमग्नं वर्णमालाकलापे । अथ सततविधितं दृश्यतामेकरूपं प्रतिपदमिदमात्मज्योतिरुद्योतमानम् ॥ ८ ॥ उदयति न मयश्रीरस्तमेति प्रमाणं क्वचिदपि च न विद्मो याति निक्षेपचक्र । किमपरमभिदध्मो धानि सर्वकषेऽस्मि अनुभवमुपयात भाति न द्रुतमेव ॥९॥ आत्मस्वभावं परभावभिन्नमापूर्णमाद्यन्तविसुक्तमेकं । विलीनसङ्कल्पविकल्पजालं प्रकाशयन् शुद्धनयोऽभ्युदेति ॥१०॥ न हि विदधति बद्धस्पृष्टभावादयोऽमी स्फुटमुपरितरन्तोऽप्येत्य यत्र प्रतिष्ठां । अनुभवतु तमेव द्योतमानं समंताजगदपगत मोहीभूय सम्यकस्वभावं ॥११॥ भूतं भान्तमभूतमेव रभसा निर्भिध बन्धं सुधीर्यधन्तः किल कोऽप्यहो कलयति व्याहत्य मोहं हठात् । आत्मात्मानुभवैकगम्यमहिमा व्यक्तोऽयमास्ते ध्रुवं नित्यं कर्मकलङ्कपङ्काधिकलो देवः स्वयं शाश्वतः ॥ १२ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy