________________
श्रीमदमृतचन्द्रसूरिविरचिताः नाटकसमयसारकलशाः ।
(८) नमः समयसाराय स्वानुभूत्या चाशते । चित्स्वभावाय भावाय सर्वभावान्तरच्छिदे ॥१॥ अनन्तधर्मणस्तत्त्वं पश्यन्ती प्रत्यगात्मनः। अनेकान्तमयी मूर्तिनित्यमेव प्रकाशताम् ॥२॥ परपरिणतिहेतोर्मोहनानोऽनुभावा- . दविरतमनुभाव्यव्याप्तिकल्माषितायाः। मम परमविशुद्धिः शुद्धचिन्मात्रमूर्ते. र्भवतु समयसारव्याख्ययैवानुभूतेः ॥ ३ ॥ उभयनयविरोधध्वंसिनि स्यात्पदाडू जिनवचसि रमन्ते ये स्वयं वान्तमोहाः। सपदि समयसारं ते परं ज्योतिरुच्चै. रनवमनयपक्षाक्षुण्णमीक्षन्त एव ॥ ४ ॥ व्यवहरणनयः स्याद्यपि प्राक्पदव्या. मिह निहितपदानां हन्त हस्तावलम्बः । तदपि परममर्थ चिच्चमत्कारमा परविरहितमन्तः पश्यतां नैष किञ्चित् ॥५॥ .