SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आलापपद्धतिः। १७७ किणोर्भेदः सद्भूतव्यवहारस्यार्थः । द्रव्ये द्रव्योपचारः, पर्याये पर्यायोपचारः, गुणे गुणोपचारः, द्रव्ये गुणोपचारः, द्रव्ये पर्यायोपचारः, गुणे द्रव्योपचारः, गुण पर्यायोपचारः, पर्याये द्रव्योपचारः, पर्याये गुणोपचार इति नवविधोऽसद्भुतव्यवहारस्यार्थो द्रष्टव्यः । उपचारः पृथग नयो नास्तीति न पृथक् कृतः । मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्त्तते सोऽपि सम्बन्धाविनाभावः । संश्लेषः सम्बन्धः। परिणामपरिणामिसम्बन्धः, श्रद्धाश्रद्धेयसम्बन्धः, ज्ञानशेयसम्बन्धः, चारित्रचर्यासम्बन्ध श्वेत्यादिसत्यार्थः, असत्यार्थः, सत्यासत्यार्थश्चेत्युपचरिताऽस. भूतव्यवहारनयस्यार्थः। पुनरप्यध्यात्मभाषया नया उच्यन्ते । तावन्मूलनयो द्वौ मि. श्चयो व्यवहारश्च । तत्र निश्चयनयोऽभेदविषयो व्यवहारो भेद विषयः। तत्र निश्चयो द्विविधः शुद्धनिश्चयोऽशुद्धनिश्चयश्च । तत्र निरुपाधिकगुणगुण्यभेदविषयकोशुद्धनिश्चयो यथा-केवलशानादयो जीव इति । सोपाधिकविषयोऽशुद्धनिश्चयो यथा-मतिज्ञानादयो जीव इति । व्यवहारो द्विविधः सद्भूतव्यवहारो. ऽसद्भूतव्यवहारश्च। तत्रैकवस्तुविषयः लभूतव्यवहारः, भि. नवस्तुविषयोऽसद्भूतव्यवहारस्तत्रसद्भूतव्यवहारो द्विविधः उपचरितानुपचरितभेदात् । तत्र सोपाधिगुणगानोर्भेद विष. यः उपचरितसद्भूतव्यवहारो यथा-जीवस्य मतिज्ञानादयो गुणाः। निरुपाधिगुणगुणिनोभेदविषयोऽनुपचरितसद्भूतव्यवहारो यथा--जीवस्य केवलज्ञानादयो गुणाः । असदुद्भूतव्यव १२
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy