________________
१७६
प्रथम गुच्छक ।
ग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः ।
इति द्रव्यार्थिकस्य व्युत्पत्तिः ।
. पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः । अनादिमि. त्यपर्याय एवार्थःप्रयोजनमस्येत्यनादिनित्यपर्यायार्थिकः । सा. दिनित्यपर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः । शुद्धपर्याय एवार्थः प्रयोजनमस्येति शुद्धपर्यायार्थिकः । अशुद्धपर्याय एवार्थः प्रयोजनमस्येत्यशुद्धपर्यायार्थिकः ।
इति पर्यायार्थिकस्य व्युत्पत्तिः ।
नैकं गच्छतीति निगमः, निगमो विकल्पस्तत्रभवो नैगमः । अभेदरूपतया वस्तुजातं संगृह्णातीति सङ्ग्रहः । सङ्ग्रहेण गृही. तार्थस्य भेदरूपतया वस्तु व्यवह्रियत इति व्यवहारः । ऋजु प्रांजलं सूत्रयतीति ऋजुसूत्रः । शब्दात् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्धः शब्दः शब्दनयः। परस्परेणाभिरूढाः स. मभिरूढाः । शब्दभेदेऽप्यर्थभेदो नास्ति । यथा शक इन्द्रः पुर• न्दर इत्यादयः समभिरूढाः । एवक्रियाप्रधानत्वेन भूयत इत्ये. वंभूतः । शुद्धाशुद्धनिश्चयो द्रव्यार्थिकस्य भेदौ । अभेदानुपचारतया वस्तु निश्चीयत इति निश्चयः । भेदोपचारतया ध. स्तु व्यवाहियत इति व्यवहारः । गुणगुणिनोः संशादिभेदात् भेदकः सद्भूतव्यवहारः । अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र स. मारोपणमसद्भूतव्यवहारः । असद्भूतव्यवहार एवोपचारः, उपचारादप्युपचारं यः करोति स उपचरितासद्भूतव्यवहारः। गुणगुणिनो पर्यायपर्यायिणोः स्वभावस्वभाविनोः कारककार.