________________
आलापपद्धतिः।
१७५ स्निग्धरूक्षत्वाभावात् । अरूक्षत्वाचाणोरमूर्तपुद्गलस्यैकविंशतितमो भावो न स्यात् । परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणाप्युपचारेणामूर्त्तत्वं । पुद्गलस्य शुद्धाशुद्धद्रव्यार्थिकेन वि. भावस्वभावत्वम् । शुद्धद्रव्यार्थिकेन शुद्धस्वभावः । अशुद्धद्रव्यार्थिकनाशुद्धस्वभावः । असद्भतव्यवहारेणोपचरितस्वभावः
"द्रव्याणां तु यथारूपं तल्लोकेऽपि व्यवस्थितम् । तथाज्ञानेन संज्ञातं नयोऽपि हि तथाविधः" ॥ ११॥
इति नययोजनिका।
सकलवस्तुग्राहकं प्रमाणं, प्रमीयते परिच्छिद्यते वस्तुतत्त्वं येन शानेन तत्प्रमाणम् । तद्वेधा सविकल्पेतरभेदात् । सविकल्पं मानसं तञ्चतुर्विधम् । मतिश्रुतावधिमनःपर्ययरूपम् । नि. विकल्पं मनारहितं केवलज्ञानमिति प्रमाणस्य व्युत्पत्तिः। प्र. माणेन वस्तु संगृहीतार्थकांशो नय:, श्रुतविकल्पो वा, ज्ञातुरभिप्रायो वा नयः, नानास्वभावेभ्यो व्यावृत्त्य एकस्मिन्स्वभावे वस्तु नयति प्राप्नोतीति वा नयः । स द्वेधा सविकल्पनिर्विकल्पभेदादिति नयस्य व्युत्पत्तिः । प्रमाणनययोनिक्षेप आरोपणं स नामस्थापनादिभेदेन चतुर्विध इति निक्षेपस्य व्युत्पत्तिः । द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः । शुद्धद्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः । अशुद्धद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिकः । सामान्यगुणादयोऽन्वयरूपेण द्रव्यंद्रव्यमिति द्रवति व्यवस्थापयतीत्यन्वयद्रव्यार्थिकः । स्वद्रव्या. दिग्रहणमर्थः प्रयोजनमस्येति स्वद्रव्यादिग्राहकः । परद्रव्यादि ग्रहणमर्थः प्रयोजनमस्येति परद्रव्यादिग्राहकः । परमभाव.