SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७४ प्रथम गुच्छक। सर्वथाऽशुद्धकान्तेऽपि तथात्मनो न कदापि शुद्धस्वभावप्रस. ङ्गः स्यात् तन्मयत्वात् । उपचरितैकान्तपक्षेऽपि नात्मज्ञता स. म्भवति नियमितपक्षत्वात् । तथात्मनोऽनुपचरितपक्षेऽपि पर. शतादीनां विरोधः स्यात् । - "नानास्वभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः । तच्च सापेक्षसिद्धर्थ स्यानयमिश्रितं कुरु" ॥ १० ॥ स्वद्रव्यादिग्राहकेणास्तिस्वभावः। परद्रव्यादिग्राहकेण ना. स्तिस्वभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकेण नित्यस्वभा वः । केनचित्पर्यायार्थिकनानित्यस्वभावः । भेदकल्पनानिरपेक्ष. णैकस्वभावः। अन्वयद्रव्यार्थिकनैकस्याप्यनेकद्रव्यस्वभावत्व म् । सद्भूतव्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः। भेदक ल्पनानिरपेक्षेण गुणगुण्यादिभिरभेदस्वभावः। परमभावग्राहकेण भव्याभव्यपारिणामिकस्वभावः । शुद्धाशुद्धपरमभावग्राहकेण चेतनस्वभावो जीवस्य । असद्भूतव्यवहारेण कनो. कर्मणोरपि चेतनस्वभावः। परमभावग्राहकेण कर्मनोकर्मणो रचेतनस्वभावः। - जीवस्याप्यसद्भुतव्यवहारेणाचेतनस्वभावः । परमभावग्राहकेण कर्मनोकर्मणोर्मू-स्वभावः । जीवस्याप्यसद्भूतव्यव. हारेण मूर्तस्वभावः । परमभावग्राहकण पुद्गलं विहाय इतरे. षाममूर्तस्वभावः । पुद्गलस्योपचारादपि नास्त्यमूर्त्तत्वम् । परमभावग्राहकेण कालपुद्गलाणूनामेकप्रदेशस्वभावत्वम् । भेद कल्पनानिरपेक्षेणेतरेषां धर्माधर्माकाशजीवानां चाखण्डत्वादेकप्रदेशत्वम् । भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम् । पुदूगलाणोरुपचारतो नानाप्रदेशत्वं न च कालाणोः
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy