________________
आलापपद्धतिः।
अनेकपक्षेऽपि तथा द्रव्याभावो निराधारत्वात् आधाराधेयाभावाच्च । भेदपक्षेऽपि विशेषस्वभावानां निराधारत्वा. दक्रियाकारित्वाभावः, अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । अभेदपक्षेऽपि सर्वेषामेकत्वम् सर्वेषामेकत्वेऽर्थक्रिया. कारित्वाभाव अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः। भव्य. स्यैकान्तेन पारिणामिकत्वात् द्रव्यस्य द्रव्यान्तरत्वप्रसङ्गात् सङ्करादिदोषसम्भवात् । सङ्करव्यतिकरविरोधवैयधिकरण्यानवस्थासंशयाप्रतिपत्त्यभावाश्चेति । सर्वथाऽभव्यस्यैकान्तेऽपि तथा शून्यताप्रसङ्गात् स्वभावरूपस्यैकान्तेन संसाराभावः । विभावपक्षेऽपि मोक्षस्याप्यभावः । सर्वथा चैतन्यमेवेत्युक्ते स. र्वेषां शुद्धज्ञानचैतन्यावाप्तिः स्यात् , तथा सति ध्यानं ध्येयं ज्ञानं ज्ञेयं गुरुशिष्याद्यभावः । सर्वथाशब्दः सर्वप्रकारवाची, अथवा सर्वकालवाची, अथवा नियमवाची, वा अनेकान्तसा. पेक्षा वा ? यदि सर्वप्रकारवाची सर्वकालवाची अनेकान्तवाची वा सर्वादिगणे पठनात् सर्वशब्द एवंविधश्चत्तहि सिद्ध नः ल. मीहितम् ।अथवा नियमवाची चेत्तर्हि सकलार्थानां तव प्र. तीतिः कथं स्यात् ? नित्यः, आनित्यः, एकः, अनेकः, भेदः, अभेदः कथं प्रतीतिः स्यात् नियमितपक्षत्वात् । तथा चैतन्यपक्षे. ऽपि सकलचैतन्योच्छेदः स्यात्, मूर्तस्यैकान्तेनात्मनो मोक्षस्यावाप्तिः स्यात् । सर्वथाऽमूर्तस्यापि तथात्मनः संसारविलोपः स्यात् । एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेक कार्यकारित्व एव हानिः स्यात् । सर्वथाऽनेकप्रदेशत्वेऽपि तथा तस्यानर्थकार्यकारित्वं स्वस्वभावशून्यताप्रसङ्गात् । शुद्धस्यै. कान्तेनात्मनो न कर्ममलकलङ्कावलेपः सर्वथा निरञ्जनत्वात् ।