SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७२ प्रथम गुच्छक। कालत्रयेऽपि परस्वरूपाकाराभवनादभव्यस्वभावः। उक्तश्च "अण्णोण्णं पविसंता दिता उग्गासमण्णमण्णस्स । मेलंतावि य णिचं सगसगभावं ण विजहंति" ॥ ७॥ पारिणामिकभावप्रधानत्वेन परमस्वभावः । इति सामा. न्यस्वभावानां व्युत्पत्तिः । प्रदेशादिगुणानां व्युत्पत्तिश्चेतना. दिविशेषस्वभावानां च व्युत्पत्तिर्निगदिता । ___ धर्मापेक्षया स्वभावा गुणा न भवन्ति । स्वद्रव्यचतुष्टया. पेक्षया परस्परं गुणाः स्वभावा भवन्ति । द्रव्याण्यपि भवन्ति । स्वभावादन्यथाभवनं विभावः । शुद्धं केवलभावमशुद्धं तस्याः पि विपरीतम् । स्वभावस्याप्यन्यत्रोपचारादुपचरितस्वभावः । स द्वेधा-कर्मजस्वाभाविकभेदात् । यथा जीवस्य मूर्तत्वमचेतनत्वं यथा सिद्धानां परशता परदर्शकत्वं च । एवमितरेषां द्रव्याणामुपचारो यथासम्भवो शेयः। "दुर्नयैकान्तमारूढा भावानां स्वार्थिका हि ते । स्वार्थिकाश्च विपर्यस्ताः सकलङ्का नया यतः" ॥ ८ ॥ तत्कथं तथाहि-सर्वथैकान्तेन सद्रूपस्य न नियतार्थव्य. वस्था-संकरादिदोषत्वात् तथा-सदूपस्य सकलशून्यता प्रसङ्गात्, नित्यस्यैकरूपत्वादेकरूपस्यार्थक्रियाकारित्वाभावः, अर्थक्रियाकारित्वाभाचे द्रव्यस्याप्यभावः । अनित्यपक्षेऽपि अनित्यरूपत्वादर्थक्रियाकारित्वाभावः, अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । एकस्वरूपस्यैकान्तेन विशेषाभावः, सर्व. थैकरूपत्वात् विशेषाभावे सामान्यस्याप्यभावः । "निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वाच विशेषस्तद्वदेव हि" ॥९॥ इति शेयः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy