________________
आलापपद्धतिः।
१७१
वस्तु । द्रव्यस्वभावो द्रव्यत्वम्। निजनिजप्रदेशसमूहैरखण्डवृत्या स्वभावविभावपयार्यान् द्रवति द्रोष्यति अदुद्रवदिति द्रव्यम् । सद्रव्यलक्षणम्, सीदति स्वकीयान् गुणपर्यायान् व्याप्नोतीति सत् । उत्पादव्ययध्राव्ययुक्तं सत् । प्रमंयस्य भावः प्रमेयत्वम् प्रमाणेन स्वपरस्वरूपपरिच्छेद्यं प्रमेयम् । अगुरुलघोर्भावोऽगुरुलघुत्वं । सूक्ष्मा वागगोचराः प्रतिक्षणं वर्तमाना आगमप्रमाणादभ्युपगम्या अगुरुलघुगुणाः ।
"सूक्ष्मं जिनोदितं तत्त्वं हेतुभिर्नेव हन्यते । आज्ञासिद्धं तु तद्ग्राह्यं नान्यथावादिनो जिनाः" ॥५॥ प्रदेशस्य भावः प्रदेशत्वं क्षेत्रत्वं अविभागिपुद्गलपरमाणुः नावष्टब्धम् । चेतनस्य भावश्चेतनत्वम् चैतन्यमनुभवनम् ।
चैतन्यमनुभूतिः स्यात् सा क्रियारूपमेव च । क्रिया मनोवचःकायेष्वन्विता वर्तते ध्रुवम् ॥ ६ ॥ अचेतनस्य भावोऽचेतनत्वमचैतन्यमननुभवनम् । मूर्तस्य भावो मूर्तत्वं रूपादिमत्वम् । अमूर्तस्य भावोऽमूर्तत्वं रूपादिरहितत्वम् । इति गुणानां व्युत्पत्तिः। स्वभावविभावरूपतया याति पर्येति परिणमतीति पर्याय इति एर्यायस्य व्युत्पत्तिः। स्वभावला. भादच्युतत्वादस्तिस्वभावः। परस्वरूपेणाभावान्नास्तिस्वभावः । निजनिजनानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्य. स्वभावः । तस्याप्यनेकपर्यायपरिणामित्वादनित्यस्वभावः । स्वभावानामेकाधारत्वादेकस्वभावः । एकस्याप्यनेकस्वभावोपलम्भादनेकस्वभावः । गुणगुण्यादिसंशाभेदाद् भेदस्वभावः । संज्ञासंख्यालक्षणप्रयोजनानि गुणगुण्याघेकस्वभावादभेदस्व. भावः । भाविकाले परस्वरूपाकारभवनाद् भव्यस्वभावः ।