________________
१७०
प्रथम गुच्छक ।
स्थायी पर्यायः । स्थूलसूत्रो यथा-- मनुष्यादिपर्यायास्तदायुः प्रमाणकालं तिष्ठन्ति इति ऋजुसूत्रोऽपि द्वेधा |
शब्दसमभिरूढैवंभूता नयाः प्रत्येकमेकैका नयाः । शब्दनयो यथा दारा भार्या कलत्रं जलं आपः । समभिरूढनयो यथा गौः पशुः । एवंभूतनयो यथा -- इन्दतीति इन्द्रः । उक्ता अष्टाविंशतिर्नयभेदाः ।
उपनयभेदा उच्यन्ते-- सद्भूतव्यवहारो द्विधा । शुद्ध. सद्भूतव्यवहारो यथा -- शुद्धगुणशुद्धगुणिनोः शुद्धपर्यायशुद्धपर्यायणोर्भेदकथनम् । अशुद्धसद्भूतव्यवहारो यथाऽशुद्धगुणाऽशुद्धगुणिनोरशुद्धपर्यायाऽशुद्धपर्यायिणोर्भेदकथनम् । इति सद्भुतव्यवहारोऽपि द्वेधा ।
असद्भूतव्यवहारस्त्रेधा । स्वजात्य सद्भूतव्यवहारो यथा-परमाणुर्बहुप्रदेशीति कथनमित्यादि । विजात्यसद्भूतव्यवहारो यथा मूर्त्त मतिज्ञानं यतो मूर्त्तद्रव्येण जनितम् | स्वजातिविजात्यस भूतव्यवहारो यथा ज्ञेये जीवेऽजीवेज्ञानामिति कथनं ज्ञानस्य विषयात् । इत्यसद्भूतव्यवहारस्त्रेधा ।
उपचरिता सदभूतव्यवहारस्त्रेधा । स्वजात्युपचरितासभूतव्यवहारो यथा-पुत्रदारादि मम । विजात्युपचरिता सद्भूतव्यवहारो यथा वस्त्राभरणहेमरत्नादि मम । स्वजातिविजात्यु. पचरिता सद्भूतव्यवहारो यथा - देशराज्यदुर्गादि मम इत्युपचरितासभूतव्यवहारस्त्रेधा ।
सहभावा गुणाः क्रमवर्तिनः पर्यायाः । गुण्यन्ते पृथक्. क्रियन्ते द्रव्यं द्रव्याद्यैस्ते गुणाः । अस्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम् । वस्तुनो भावो वस्तुत्वम्, सामान्यविशेषात्मकं -